हस्तिनापुरराजसभायां भगवतः श्रीकृष्णस्य विश्वरूपदर्शनम्

Published on 12 December 2019 05:23 PM
हस्तिनापुरराजसभायां भगवतः श्रीकृष्णस्य विश्वरूपदर्शनम्

शान्तिप्रस्तावं नीत्वा भगवान् श्रीकृष्णः हस्तिनापुरं गतवान् आसीत्!

राजसभायां पितामह भीष्मः, कृपाचार्यः, महात्मा विदुरः, आचार्य द्रोणः,च सर्वे महान्तः जनाः वीराः योद्धाः च उपविष्टवन्तः आसन्!

अहंकारी दुर्योधनः दुःश्वासनः चापि आस्ताम्!

पितामह भीष्मः, आचार्य द्रोणः, महात्मा विदुरः च एते सर्वे भगवते नमस्कृतवन्तः भगवान् श्रीकृष्णः अपि तेभ्यः नमस्कृतवान्!

तदनन्तरं भगवान् श्रीकृष्णः महाराजधृतराष्ट्रं प्रणम्य विनयेन शान्तिप्रस्तावम् उक्तवान्!

हे राजन्! अहं पाण्डवानां पक्षतः शान्तिप्रस्तावं नीत्वा आगतवान् अस्मि!

हे राजन्! इन्द्रप्रस्थराज्यं पाण्डवेभ्यः पुनः समर्पयतु इति!

तदा दुर्योधनः आसन्दात् उत्थाय उक्तवान्- हे वासुदेव! इन्द्रप्रस्थराज्यं पाण्डवेभ्यो न दास्यामि इति!

तदा पितामह भीष्मः दुर्योधनम् उक्तवान् हे पुत्र! किञ्चित् विचिन्त्य एव वक्तव्यम् आसीत् भवता!

दुर्योधनः उक्तवान्- नहि पितामह नहि! अहं इन्द्रप्रस्थराज्यं पाण्डवेभ्यो न दास्यामि!

वासुदेवस्य समीपे अन्यः कोऽपि प्रस्तावः अस्ति चेत् कथयेत् अहं तस्योपरि विचारं करिष्यामि इति!

तदा भगवान् श्रीकृष्णः उक्तवान्- आम्, मम समीपे अस्ति एको अन्य विकल्पः!

अहं पाण्डवानां पक्षतः केवलं पञ्चग्रामाः याचयामि इति !

तदा दुर्योधनः उच्चैः कोपेन उक्तवान्- नहि कदापि नहि! अहं तु विना युद्धे पाण्डवेभ्यः सूचिकायाः अग्रभागे यद् भूमिः तिष्ठति तदपि न दास्यामि इति!

हे मूढ! शिवभक्ता-गान्धारीमातुः नेत्रे अश्रूणि किमर्थं द्रष्टुम् इच्छति इति भगवान् श्रीकृष्णः उक्तवान्!

युद्धं भवेत् चेत् त्वं तु मरिष्यसि इति !

तदा दुर्योधनः कोपेन उक्तवान् हे वासुदेव! यदि भवान् अत्र राजसभायां न भूत्वा अन्यत्र कुत्रापि अभविष्यत् चेत् मम मातुः विषये कथनमात्रेण अहं भवन्तं बद्ध्वा कारागारं अस्थापयिष्यम् !

तदा सभायाम् उपस्थिताः केचन ज्येष्ठाः उक्तवन्तः अरे मूर्ख! वासुदेवं प्रति तव एवं विचारः??

भगवान् श्रीकृष्णः अपि उक्तवान्- अरे अहंकारी मूढ दुर्योधन! त्वं मां बद्ध्वा स्थापयितुं शक्ष्यसि?? तर्हि अवश्यम् एव एकवारं प्रयत्नं कृत्वा पश्य इति!

दुर्योधनः अपि तदा भगवन्तं ग्रहीतुं सैनिकान् आदिष्टवान् आसीत्!

तत्क्षणम् एव भगवान् श्रीकृष्णः विश्वरूपम् अदर्शयत् !

ॐ श्रीकृष्णाय नमः!!

🌹🍁🌹

-प्रदीपः!