स्थगिता अभवत्

Published on 31 December 2019 09:10 PM
कक्षायां शिक्षकः सर्वेभ्यः छात्रेभ्यः आदेशं दत्तवान् आसीत् यत् सर्वे छात्राः क्रिकेटक्रीडाविषये एकैकं निबन्धं लिखन्तु इति।

तदा सर्वे छात्राः निबन्धं लेखितुम् आरब्धवन्तः आसन् परन्तु एकः एव छात्रः मौनम् उपविशन् आसीत्। किमपि न लिखति स्म।

यदा निमेषद्वयम् अवशिष्टम् आसीत् तदा सः लेखितुम् आरब्धवान्। तदा सः शीघ्रं शीघ्रं लिखितवान् आसीत्।

सः शीघ्रं शीघ्रं लिखति इति दृष्ट्वा शिक्षकः तस्य समीपं गत्वा दृष्टवान् वृष्टेः कारणात् क्रिकेटक्रीडा स्थगिता अभवत् इति लिखितवान्।

-प्रदीपः!