सुंदरसंस्कृतभाषाभूषित-मंदिरपूर्णमहीलसतु
Published on 3 September 2019 06:07 PM
रचनाकारः - विद्वान् महाबलेश्वर शास्त्री
स्वरः - उमा माहेश्वरी
सुंदरसंस्कृतभाषाभूषित-
मंदिरपूर्णमहीलसतु।
कोमलकण्ठविनिर्गतकाव्य-
सुधारसतोषयुता भवतु ।।
विविधोद्यमरतमानवभाषण-
भूषणतामपि सा व्रजतु।
संस्कृतडिण्डिमनादविनोद-
विशेषसुतोसजना नटतु ।।
सञ्चरितामृतपुरितसंस्कृत-
नाट्यकलाभरिताहसतु।
भारतरामायणकविदर्शित-
मार्गरताधुनिता भवतु।।
पाणिनिमुख्यव्याकरणस्थित्-
शुद्धपदाभिरता लसतु।
सस्वरवेदाध्ययमनोहर-
शास्त्रविचाररता वदतु।।
विज्ञानादिविचारपरिष्कृत-
संस्कृतग्रन्थयुता लसतु।
विश्वोद्धारकसंस्कृतिपूरित-
संस्कृतभाषा सा जयतु।।
👏🏻विद्वान् महाबलेश्वर शास्त्री👏🏻
