सरला सुलभा संस्कृतभाषा
Published on 3 September 2019 06:36 PM
[audio src='https://sanskrit.today/wp-content/uploads/2019/09/सरला-सुलभा-संस्कृतभाषा.mp3'][/audio]
सरला सुलभा संस्कृतभाषा
सुन्दरभाषा सुरभाषा ।
देवभाषा वेदभाषा
मुनिगणकविजनप्रियभाषा ।।
।।सरला सुलभा ………..।।
युवयुवतीनां भाषा ह्येषा
विदुषां भाषा दिव्यभाषा ।
वेदवेदान्तविचारयुक्ता
ऋषिभिः सततं सुषेविता ।।
।।सरला सुलभा ………..।।
कविजनकृतिभिस्तुष्टा एषा
बुधजनशास्त्रैः सुसेविता ।
ज्ञानविज्ञानैः पूर्णा भाषा
संस्कृतिरनया सुरक्षिता ।।
।।सरला सुलभा ………..।।
वे. नरसिंहय्यः, बेङ्गलुरु (कर्णा.)
--- स्वरः - गोपालकृष्णमिश्रः
