श्रीकृष्णस्य कथा

Published on 23 December 2019 07:15 PM
भगवतः श्रीकृष्णस्य मातुलः कंसः!

मथुरायाः राजा कंसः अतीव क्रूरः शासकः आसीत्!

भगवान् श्रीकृष्णः तं कंसं जघान!

तदनन्तरं कंसस्य श्वशुरः जरासन्धः श्रीकृष्णं बलरामं च हन्तुं मथुरायाः उपरि सप्तदशवारम् आक्रमणं कृतवान् आसीत्!

प्रत्येकं वारं सः जरासन्धः युद्धे पराजयात् परं पुनः सः दुष्टान् राज्ञः नीत्वा पुनः पुनः मथुरायाः उपरि आक्रमणं करोति स्म!

परन्तु प्रतिवारं भगवान् श्रीकृष्णः जरासन्धं विहाय अन्यान् सर्वान् मारयति स्म!

भगवतः श्रीकृष्णस्य एवं कृत्यं दृष्ट्वा भ्राता बलरामः अत्यन्तं कुपितः अभवत्!

सः श्रीकृष्णं पृष्टवान् किमर्थम् एवं करोति इति!

तदा श्रीकृष्णः शान्तस्वरेण उक्तवान्- भ्रातः! अस्मिन् जगति कुत्र कुत्र दुष्टाः क्रूराः च सन्ति इति अहं कथं वा ज्ञातुं शक्नोमि!

सः दुष्टः जरासन्धः सर्वान् दुष्टान् युद्धार्थम् आनयति !

अहमपि तान् सर्वान् दुष्टान् एकस्मिन् स्थाने हन्तुं शक्नोमि इति!

अन्ते च जरासन्धम् अपि हनिष्यामि इति श्रीकृष्णः बलरामम् उक्तवान्!

भगवतः श्रीकृष्णस्य वचनं श्रुत्वा बलरामस्य कोपः शान्तः अभवत्!

🌹🌷

जय श्रीकृष्ण!

-प्रदीपः