विश्वे ह्यशेषदेशाद् रम्यं नु भारतं नः

Published on 3 September 2019 06:10 PM

रचनाकारः - शशिपालशर्मा'बालमित्रः'

स्वरः - प्रिया

चलचित्रनिर्माता - गोपालकृष्णमिश्रः






https://youtu.be/IobAYwQjWdQ








विश्वे ह्यशेषदेशाद् रम्यं नु भारतं नः।

स्मः पक्षिणः सुकण्ठाः एषास्ति वाटिका नः।।





सर्वोच्छ्रितः स शैलो नभसः सखा विशालः।

प्रहरी स नः पुराणो देशस्य रक्षको नः।।





शतशः सरित्प्रवाहाः क्रोडेऽस्य क्रीडलीलाः।

यत्सिंचितोपवन्यैः स्वर्गोऽपि हीनशोभः।।





न हि सम्प्रदायशिक्षा वैराय शोभते भोः।

हिन्दूस्वदेशवासे स्मो हिन्दवो हि सर्वे।।





यूनानमिस्ररोमा लुप्ता ह्यनेकदेशाः।

यातानि युगयुगानि देशो हि शाश्वतो नः।।