यथा भावः तथा फलम्

Published on 27 December 2019 03:47 PM
कस्मिंश्चित् परिवारे दौ भ्रातरौ आस्ताम्!

तयोः गृहे प्रतिदिनम् उच्चैः कलहः भवति स्म!

तयोः पिता प्रतिदिनं मद्यपानं कृत्वा गृहम् आगत्य सर्वान् ताडयति स्म!

कालः गतः, दौ अपि ज्येष्ठौ जातौ!

तयोः अन्यतमः सम्यक् अध्ययनं कृत्वा उच्चां पदवीं प्राप्तवान्!

अपरस्तु अध्ययने अनासक्तः सन् अनुचितानि कार्याणि कुर्वन् चौरकार्यम् आरब्धवान्!

कदाचित् सः चौरसमये बद्धः सन् कारागारं प्रविष्टवान्!

कुटुम्बपरिसरः व्यक्तिजीवने कथं प्रभावं जनयति इति एकः पत्रकारः अधीते स्म!

सः पत्रकारः एतयोः भ्रात्रोः विषये वार्तां श्रुतवान् आसीत्!

प्रथमं सः पत्रकारः कारागारं गतवान् तं पृष्टवान् च भोः! भवान् किमर्थं न अधीतवान् !

किमर्थं भवान् चौरकार्यम् आरब्धवान् इति!

तदा सः तरूणः उक्तवान्! अस्माकं परिवारे सर्वदा कलहः आसीत् अशान्तिः च आसीत्!

एतेन कारणेन अहम् अध्ययनं न कृतवान्! अध्ययने मम आसक्तिः न आसीत्!

अतः अहम् अनुचितानि कार्याणि कुर्वन् चौरसमये बद्धः अस्मि इति!

एतच्छ्रुत्वा पत्रकारः तस्य भ्रातुः समीपं गतवान्! तमपि पृष्टवान् भोः! भवतः सफलतायाः रहस्यं किम् इति!

सः उक्तवान्- मम सफलतायाः रहस्यं तु मम पिता एव!

सर्वदा मम गृहे उच्चैः कलहः भवति स्म!

मम पिता प्रतिदिनं मद्यपानं कृत्वा गृहम् आगत्य मम मातरं च सर्वान् ताडयति स्म!

अतः अहं चिन्तितवान् यत् मया स्वीये जीवने एवं न भवितव्यम्!

अतः अहं सर्वाः बाधाः अविगणय्य अध्ययने निरतः आसम्!

अतः अहम् इदानीम् उच्चां पदवीं प्राप्तवान् अस्मि इति!

तयोः वचनं श्रुत्वा पत्रकारः अचिन्तयत् यत् यथा भावः तथा फलम् इति!!

🌹☘

-प्रदीपः