यथा कर्म तथा फलम्

Published on 23 December 2019 09:37 AM
यथा कर्म तथा फलम्!!

असमप्रान्ते प्रवृत्ता एका वास्तविकी घटना!

शिथिल नामकः एकः पुरुषः प्रेमविवाहः कृतवान् आसीत्!

विवाहात् परं सः तस्य पत्नीं बहु पीडयति स्म!

एकस्मिन् रात्रौ सः तस्य पत्नीं हत्वा गर्ते पातितः!

तदर्थं सः बहु दिनानि पर्यन्तं कारागारे आसीत्!

कारागारात् बहिः आगमनात् परं सः अपि एकस्यां दुर्घटनायां मृतः अभवत्!

शिथिलस्य प्रतिवेशी एका बालिका परह्यः सन्ध्याबेलायां तस्याः गृहात् अन्यस्य गृहं गतवती आसीत्!

गमनसमये मार्गे सः मृतः शिथिलः आसीत्! ( सः भूतः अभवत्, कथितम् अस्ति यत् यस्य अपमृत्युः भवति तस्य आत्मनः शान्तिः न भवति, तस्य आत्मनः शान्तेः विष्णोः पूजा करणीया भवति परन्तु तस्य गृहसदस्याः तत् न कृतवन्तः! )

तदा तस्याः बालिकायाः पादघातः मृतस्य शिथिलस्य छायायाः उपरि अपतत्!

तेन कुपितः सः भूतः तां बालिकां गृहीतवान्!

तदनन्तरं सा यदा गृहं गतवती तदा तस्याः महान् ज्वरः अभवत्!

गृहजनाः वैद्यस्य परामर्शं गृहीत्वा तस्यै औषधानि दत्तवन्तः परन्तु रोगस्य उपशमनं न भवति स्म!

तदा चिन्तिताः गृहसदस्याः तां दर्शयितुं एकं कविराजम् आहूतवन्तः!

( कविराजः इत्युक्ते यः तन्त्रमन्त्रं जानाति, भूतप्रेतः इत्यादिनां चिकित्सां करोति! ग्रामेषु प्रायः कविराजाः भवन्ति)

कविराजः आगत्य तस्य मन्त्रबलेन तां बालिकां कांश्चन प्रश्नान् पृष्टवान्!

प्रश्नानाम् उत्तराणि किन्तु सा न उक्तवती, सः मृतः शिथिलः एव उक्तवान्!

कविराजः मृतं शिथिलं पृष्टवान् तव मृत्युः कथम् अभवत्?

सः उक्तवान्! अहं मम पत्न्याः हत्यां कृतवान्, सा बहु पीडां प्राप्तवती अतः सा अपि मम हत्यां कृतवती!

मम सत्कारं कोऽपि न कृतवान् अतः अहं मम गृहे एव अस्मि!

🌹🌺

प्रदीपनाथः!!