मित्रस्य रक्षणम्
Published on 25 November 2019 10:07 AM
लघ्वी कथा!!
एकदा द्वे मित्रे युगपत् वनं गच्छन्तौ आस्ताम्!
गमनसमये मार्गे तौ एकं भाल्लुकं दृष्टवन्तौ !
भाल्लुकः तौ दृष्ट्वा धावित्वा तयोः पुरतः आगतवान् आसीत्!
तौ तं भाल्लुकं दृष्ट्वा एकः वृक्षस्य उपरि आरुढवान् अन्यश्च वृक्षस्य अधः मृतः इव अभिनयं कृत्वा शयनं कृतवान्!
तदा भाल्लुकः वृक्षस्य अधः सुप्तस्य मित्रस्य समीपम् आगत्य नासिकया जिघ्रितवान् !
सः मृतः इति मत्वा भाल्लुकः ततः निर्गतवान्!
भाल्लुकस्य गमनात् परं सः मित्रं (यः वृक्षस्य उपरि आसीत्) वृक्षात् अवतीर्य आगत्य तस्य मित्रं पृष्टवान् भोः मित्र! भवन्तं भाल्लुकः किम् उक्त्वा गतवान्?
सः उत्तरितवान्- विपत्तौ काले मित्रस्य रक्षणं करणीयम् इति!!
-प्रदीपः