मम विश्वासः
Published on 31 December 2019 12:17 PM
एकस्य धनिकस्य गृहम् एकः चोरः चोरयितुं गतवान्।
तस्य गृहस्य अन्तः यत्र शेवधिः स्थापितः आसीत् तस्य उपरि लिखितम् आसीत्
४५६ एतान् अङ्कान् नोदयति चेत् शेवधेः द्वारम् उद्घाटितं भविष्यति इति।
यदा सः चोरः एतान् अङ्कान् नोदितवान् तदा उच्चैः सङ्केतध्वनिः अभवत्।
ध्वनिं श्रुत्वा झटिति तस्य धनिकस्य गृहम् आरक्षकाः आगतवन्तः।
आरक्षकाः आगत्य तं चोरं गृहीतवन्तः।
गमनसमये सः चोरः धनिकम् उक्तवान्- अद्यारभ्य मानवतायां मम विश्वासः समाप्तः।
-प्रदीपः!