भगवतः शिवस्य व्रतकथा

Published on 23 December 2019 09:31 AM
एकः व्याधः आसीत्!

सः प्रतिदिनं मृगयार्थं वनं गच्छति स्म!

एकदा सः मृगयार्थं वनं गतवान् आसीत्!

तदा वने एव रात्रौ अभवत्!

सः रात्रौ गृहम् आगन्तुं न शक्तवान्!

रात्रौ कुत्र यापयामि वने तु हिंस्रजन्तवः सन्ति इति चिन्तयित्वा सः एकं वृक्षम् आरुह्य तस्य उपरि उपविष्टवान्!

सः व्याधः न जानाति यत् सः वृक्षः बिल्ववृक्षः आसीत्!

समस्तरात्रौ सः निद्राम् एव न कृतवान्!

रात्रौ मिहिका आसीत्!

मिहिकायाः जलेन सर्वाणि वृक्षस्य पर्णानि आर्द्राणि जातानि आसन्!

वृक्षस्य अधः शिवलिङ्गम् आसीत्! तस्मिन् दिने एव शिवचतुर्दशी अपि आसीत्!

तदा एव व्याधस्य हस्तस्पर्शेण वृक्षात् एकं पर्णं पतित्वा शिवलिङ्गस्य उपरि अपतत्!

अज्ञानात् एव तस्य शिवचतुर्दशीव्रतस्य पुण्यम् अभवत्!

प्रातःकाले सः गृहं गतवान्!

तस्य पत्नी तस्मै भोजनम् आनीय दत्तवती!

यदा सः भोजनं कर्तुम् उपविष्टवान् तदा एव तस्य गृहे एकः भिक्षुकः आगतवान् आसीत्!

किमपि चिन्तयित्वा सः व्याधः तस्य सर्वं भोजनं भिक्षुकाय दत्तवान्!

तेन सः पारणस्य पुण्यफलं प्राप्तवान्!

केभ्यश्चिद् दिनेभ्यः पश्चात् तस्य महती पीडा अभवत्! तया पीडया एव तस्य व्याधस्य मृत्युः अभवत्!

व्याधस्य मृत्योः परं तं नेतुं यमदूताः आगतवन्तः , अन्यत्र शिवदूताः अपि आगतवन्तः!

तं के नेष्यन्ति इति तयोः उभयोः मध्ये विवादः सञ्जातः!

तुमुलं युद्धं अपि अभवत्!

युद्धे यमदूताः पराजिताः अभवन्!

शिवदूताः व्याधं नीत्वा कैलाशं प्रति प्रस्थितवन्तः , यमदूताः अपि तेषां पृष्ठतः गतवन्तः!

तत्र कैलाशे नन्दी द्वारपालः आसीत्!

सः नन्दी व्याधस्य पुण्यफलस्य सर्वं वृत्तान्तं यमदूतान् श्रावितवान्!

तदा यमदूताः सर्वे ततः प्रत्यागत्य यमराजस्य समीपं गत्वा सर्वं वृत्तान्तं निवेदितवन्तः!

यमराजः सर्वं वृत्तान्तं श्रुत्वा अङ्गीकृतवान् यत् ये शिवभक्ताः विष्णुभक्ताः च सन्ति तेषाम् उपरि मम अधिकारः एव नास्ति इति!!

🌺🌹

-प्रदीपः