भक्तः पुण्डरीकः

Published on 12 December 2019 05:38 PM
भक्तः पुण्डरीकः!!

पुराकाले दक्षिणे भारते पुण्डरीकः इति कश्चन महान् भक्तः आसीत्!

सः प्रतिदिनं तस्य मातापित्रोः श्रद्धया भक्त्या च सेवां करोति स्म!

मातापित्रोः तस्य भक्तिः जगति प्रसिद्धा आसीत्!

मातापित्रोः तस्य भक्तिं दृष्ट्वा एकदा स्वयं भगवान् अपि तेन पुण्डरीकेन सह मेलितुम् आगतवान् आसीत्!

यदा भगवान् तस्य गृहम् आगतवान् आसीत् तदा सः तस्य मातापित्रोः सेवायां निमग्नः आसीत् अतः सः भगवन्तं दृष्ट्वा तम् उपवेष्टुम् एकाम् इष्टिकां दत्वा उक्तवान् प्रभो! अस्याम् इष्टिकायां किञ्चित् विश्रामं करोतु, अहम् इदानीं मातापित्रोः सेवायां निरतः अस्मि! किञ्चित् पश्चात् अहं भवता सह वार्तालापं करिष्यामि इति!

पितरौ प्रति तस्य भक्तिं दृष्ट्वा भगवान् अतीव प्रसन्नः अभवत्!

यावत् पर्यन्तं सः पुण्डरीकः न आगतवान् आसीत् तावत् पर्यन्तं सः भगवान् इष्टिकायाः उपरि स्थित्वा तस्य प्रतीक्षां कुर्वन् आसीत्!

पितरौ सेवां समाप्य पुण्डरीकः बहिः आगत्य भगवन्तं नमस्कृतवान् !

तस्य भक्त्यां सेवायां च सन्तुष्टः भगवान् आदिष्टवान् हे पुण्डरीक! कमपि वरं याचताम् इति!

तदा पुण्डरीकः वररूपेण भगवन्तं सर्वदा तस्मिन् स्थाने प्राप्तुम् ऐच्छत्!

भगवान् तथास्तु इत्युक्त्वा ततः निरगच्छत्!

भीमा (चन्द्रभागा) इति नद्याः तीरे पण्डरपुरस्य मन्दिरे श्रीवित्थल इति नाम्ना भगवान् अद्यापि विद्यमानः अस्ति!

भक्तः पुण्डरीकः एव अस्य मन्दिरस्य प्रतिष्ठापकः इति सर्वे जानन्ति!

🌹🌹

-प्रदीपः!!