पुत्रः स्नेहः
Published on 12 December 2019 07:57 AM
पुत्रः स्नेहः!!
पूर्वं रायगढ़दुर्गम् आसीत्।
शिवाजी-महाराजः तस्य पालनं करोति स्म।
एका महिला प्रतिदिनं रायगढ़दुर्गं गत्वा क्षीरविक्रयणं करोति स्म।
तस्याः एकः लघुः शिशुः आसीत्। सा तं शिशुं गृहे एव त्यक्त्वा आगच्छति स्म।
क्षीरविक्रयणं कृत्वा सा सायंकालात् पूर्वम् एव गृहं प्रति प्रत्यागच्छति स्म।
एकस्मिन् दिने क्षीरविक्रयणं कृत्वा कृत्वा तस्याः महिलायाः विलम्बः अभवत्। सायंकालः अभवत्, अन्धकारः अभवत्।
तदा सा शीघ्रं शीघ्रं धावित्वा मुख्यद्वारस्य समीपम् आगत्य मुख्यद्वारं पिहितम् आसीत् इति दृष्टवती।
तदा सा महिला रक्षकभटम् उक्तवती द्वारम् उद्घाटयतु इति परन्तु भटः तद् निराकृतवान् उक्तवान् च रात्रौ द्वारं न उद्घाटनीयम् इति शिवाजीमहाराजस्य सूचना अस्ति इति।
सा पुनः उक्तवती यद् गृहे मम लघुः शिशुः अस्ति, तस्मै भोजनं दातव्यम् अस्ति इति परन्तु तथापि भटः द्वारं न उद्घाटितवान् आसीत्।
तदा सा महिला दिग्भ्रान्ता जाता।
सा दुर्गस्य अन्तः सर्वत्र अटित्वा अटित्वा एकत्र दुर्गस्य भित्तिः शिथिला आसीत् इति दृष्ट्वा सा कथञ्चित् तां भित्तिम् आरुह्य बहिरागतवती आसीत्।
अनन्तरे दिने शिवाजी महाराजः एतां वार्तां श्रुतवान्
तां महिलाम् आहूय पृष्टवान् च भवति ह्यः कथं गतवती आसीत् इति।
तदा सा महिला उक्तवती अहं किमपि न जानामि कथं गतवती इति। मम कर्णयोः केवलं शिशोः रोदनं श्रूयते स्म इति।
तदा महाराजः तस्याः वार्तां श्रुत्वा संतुष्टः अभवत् तस्यै पारितोषिकमपि अददात्।
🌹🌹
-प्रदीपः!!