पाठयेम संस्कृतं जगति सर्वमानवान्
Published on 3 September 2019 06:13 PM
[audio src='https://sanskrit.today/wp-content/uploads/2019/09/पाठयेम-संस्कृतं.ogg'][/audio]
पाठयेम संस्कृतं जगति सर्वमानवान्
प्रापयेम भारतं सपदि परमवैभवम् ॥
व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेहशक्तिशीलशौर्यदेशभक्तिभूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥हिन्दुबन्धुमेलनेन सर्वदोषनाशकम्
उच्चनीचजातिराज्यभेदभाववारणं
सामरस्यरक्षणेन शान्तिपूर्णजीवनं
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥
जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
साधितास्तु माधवस्य विश्वविजयकामना ॥