पराभूतसमाजस्य तत्त्वज्ञानम्

Published on 27 December 2019 03:46 PM
भारतस्य श्रेष्ठः कविः तथा तत्त्ववेत्ता रवीन्द्रनाथटागोरः जपानदेशस्थविद्यापीठस्य अधिकारिणाम् अनुरोधेन भाषणं दातुं जपानदेशं गतवान्।

तथापि भाषणस्य नियोजितस्थाने यैः सः आमन्त्रितः तान्विहाय कोपि अन्यः उपस्थितः नासीत्।

तं स्थानं परितः सर्वाणि विद्यार्थिवसतिगृहाण्यासन्। तथापि एकोपि विद्यार्थी भाषणं श्रोतुं नागतः। एतावच्छ्रेष्ठे तत्त्वज्ञे अस्माभिः आहूते सत्यपि एवमभवदित्येतत् आयोजकानां महदाश्चर्यम् अजनयत्।

अनुपस्थितेः कारणे पृष्टे एकः विद्यार्थी उक्तवान्, "पराभूतराष्ट्रस्य तत्तवज्ञानं श्रोतुं नास्माकमिच्छा। We don't wish to listen to the philosophy of a defeated nation"

🌸