दर्पणस्य वैशिष्ट्यम्

Published on 22 December 2019 05:14 PM
दर्पणस्य वैशिष्ट्यं ते अपि श्रुतवन्तः!

तेषां सर्वेषाम् अपि महद् आश्चर्यं जातम्!

तदा युधिष्ठिरः श्रीकृष्णम् उक्तवान् भगवन्! भवान् अस्य दर्पणस्य परीक्षां करोतु इति!

श्रीकृष्णः दर्पणं गृहीतवान्!

पाण्डवेषु एकैकः अपि चिन्तयति, अहं कृष्णभक्तः अतः मम मुखम् एव दृश्यते खलु इति!

परन्तु अहो आश्चर्यम्! तत्र दुष्टस्य शकूनेः मुखं दृश्यते!

एतद् दृष्ट्वा पाण्डवाः खिन्नाः अभवन्, निराशा अपि जाता!

तदा पाण्डवानां शङ्कायाः समाधानं कुर्वन् श्रीकृष्णः उक्तवान् ! अहं तु सर्वदा भवतां पार्श्वे भवामि एव! अतः पृथक् पुनः मम स्मरणस्य आवश्यकता न भवति!

परन्तु अयं दुष्टः शकूनिः एवं न! सः सर्वदा मम विषये एव चिन्तनं करोति! कृष्णस्य हत्या कथं करणीया , युद्धे पराजितः कथं करणीयः इति!

अतः सः सर्वदा अपि मम विषये एव चिन्तनं करोति इति!

उद्देश्यः उत्तमः वा भवतु अनुत्तमः वा भवतु , सः सर्वदा माम् एव स्मरति इति तु सत्यम्!

श्रीकृष्णस्य वचनं श्रुत्वा पाण्डवानां शङ्का दूरीभूता!

जय श्रीकृष्ण!

🌷🌹

-प्रदीपः