ज्ञानी राजा

Published on 12 December 2019 05:36 PM
ज्ञानी राजा!!

पुराकाले कलिङ्गदेशे सत्यगुप्तः नामकः एक महाराजः आसीत्!

तस्य महाराजस्य पुत्रः कमलः!

सः अतीव बुद्धिमान् चतुरः च आसीत्!

परन्तु सः बहु अहंकारी आसीत्!

कदाचित् सः महाराजमपि उपहसति स्म!

अहमेव पण्डितः सर्वज्ञः इति तस्य अहं भावः आसीत्!

पुत्रस्य स्वभावं दृष्ट्वा महाराजः अतीव दुःखितः आसीत्!

मम पुत्रः किमर्थं अहंकारी इति!

एकदा कमलः महाराजस्य समीपम् आगत्य पृष्टवान्- अस्माकं समीपे महत् सैन्यम् अस्ति, सैन्यस्य का आवश्यकता! यतोहि वृथा धनव्ययः भवति इति!

तदा महाराजः उक्तवान् युद्धकाले सैन्यस्य आवश्यकता भवति! सैन्यस्य पोषणार्थं धनव्ययं कुर्मः चेदपि कापि हानिः न भवति इति!

तदा राजकुमारः उक्तवान् युद्धकाले धनं दद्मः चेद् बहवः सैनिकाः लभ्यन्ते अतः इदानीं सैन्यपोषणस्य आवश्यकता नास्ति इति!

महाराजः तदा किमपि न उक्तवान्, मौनम् एव अतिष्ठत्!

तस्मिन् दिने रात्रौ महाराजः पुत्रम् आहूय युगपत् भोजनं कृत्वा अनन्तरं पुत्रम् आदिष्टवान् पुत्र! काकान् आह्वयतु तेभ्यः अन्नं दद्मः इति!

तदा राजकुमारः उक्तवान् हे पितः! रात्रिसमये तान् काकान् आह्वयामि चेत् ते आगच्छन्ति वा इति?

तदा महाराजः उक्तवान् रात्रिसमये अन्नं दद्मः चेदपि यथा काकाः न आगच्छन्ति तथा युद्धकाले धनं दद्मः चेत् सैनिकाः न लभ्यन्ते इति!

सैन्यस्य पोषणार्थं धनं व्यर्थं न भवति इति!

तदा राजकुमारः स्वस्य दोषम् अविवेकं च ज्ञात्वा पितुः समीपे क्षमां प्रार्थितवान्!

🌹🌹

-प्रदीपः!!