जीवने स्वर्णस्य निकषस्य च आवश्यकता एव नास्
Published on 25 November 2019 10:15 AM
रोहिदासः कश्चन चर्मकारस्य पुत्रः आसीत्!
सः गङ्गानद्याः तीरे निवसति स्म!
सः अत्यन्तं हरिभक्तः आसीत्!
चर्मकारस्य पुत्रः इति कारणात् स्वजीवने अपि तदेव चर्मकारवृत्तिं स्वीकृतवान् आसीत्!
सः पादरक्षाणां निर्माणं करोति विक्रयणं च करोति स्म!
परन्तु सः हरिभक्तः, धर्मिष्ठः आसीत् अतः सर्वदा हरिनाम भजते स्म! पादरक्षानिर्माणसमये अपि हरिनाम जपते स्म! तत्कारणतः सः सर्वदा प्रसन्नः भवति स्म!
तस्य बहवः शिष्याः अपि आसन्!
तेषु एकः धनिकः, धर्मिष्ठः शिष्यः आसीत्!
सः चिन्तितवान् यत् मम गुरुः पादरक्षां निर्माय जीवनं करोति, एतेन न भवितव्यम्!
सः अपि धनिकः भवेत् इति!
उत्तमवृत्तिं आश्रयेत् इति!
सः एकं उपायं चिन्तितवान्!
गुरोः समीपम् आगत्य सः उक्तवान् गुरो! अहं श्वः तीर्थयात्रां कर्तुं गमिष्यामि!
मम समीपे एकः निकषः अस्ति!
एष निकषः विशिष्ट निकषः अस्ति!
अस्य निकषस्य स्पर्शेन लोहः अपि स्वर्णमयः भवति!
भवान् एतस्य उपयोगं कर्तुम् अर्हति!
अहम् एकमासानन्तरं प्रतिस्वीकरोमि इति!
रोहिदासः अपि अङ्गीकृतवान्!
तदा सः शिष्यः तं निकषं गुरोः गृहस्य अन्तः एकस्मिन् कोणे स्थापयित्वा तीर्थयात्रार्थं गतवान्!
एकमासानन्तरं सः स्वगृहम् आगत्य चिन्तितवान् यत् इदानीं तु मम गुरुः धनिकः स्यात्! तस्य गृहमपि भव्यं जातं स्यात्!
सः गुरोः गृहम् आगत्य दृष्टवान् प्राचीनमेव गृहम्!
गुरुः अपि तथैव कार्यं कुर्वन् अस्ति!
सः शिष्यः गुरोः समीपम् आगत्य उक्तवान् गुरो! अहं भवते एकं निकषं दत्तवान् आसम् सः निकषः कुत्र अस्ति इति!
गुरुः अपि चिन्तयित्वा उक्तवान् भवान् यत्र स्थापितवान् तत्रैव स्यात् अन्वेषणं करोतु इति!
तदा शिष्यः गुरोः गृहस्य अन्तः प्रविश्य दृष्टवान् निकषः तत्रैव आसीत् यत्र सः स्थापितवान् आसीत्!
तदा शिष्यः गुरोः मुखं पश्यति! सः गुरुः तथैव आनन्दपूर्णः हरिनाम जपन् स्वकार्यं कुर्वन् आसीत्!
तदा गुरुः शिष्यम् उद्दिश्य उक्तवान् वत्स! निकषेण मम को लाभः! स्वर्णं कुर्याम्! स्वर्णेन मम को लाभः!
अकस्मात् स्वर्णनिर्मितिः भवति चेदपि तस्य रक्षणविषये मया चिन्तनीयम्!
स्वर्णलोभकारणतः तस्य रक्षणविषये अहं चिन्तामग्नः भवितुं न इच्छामि!
अहम् आनन्दपूर्णस्थितितः पठितुं न इच्छामि इति!
मम जीवने स्वर्णस्य निकषस्य च आवश्यकता एव नास्ति इति!
-प्रदीपः