कदा कथाः लिखति?

Published on 3 January 2020 01:47 PM
एकः प्रसिद्धो लेखकः आसीत्।

एकदा एकः पत्रकारः तं लेखकं पृष्टवान् हे महोदय! भवान् आदिनं किं किं कार्यं करोति? अपिच कालयापनं कथं करोति?

लेखकः- अहं प्रातःकाले षड्वादने उत्तिष्ठामि। तत्पश्चात् स्नानं कृत्वा अटनाय बहिः गच्छामि। ततः आगत्य प्रातराशं स्वीकृत्य किञ्चित् कालपर्यन्तं बालकैः सह क्रीडामि।

तदनन्तरं पुनः अहं शयनं करोमि। शयनात् उत्थाय भोजनं स्वीकृत्य पुनः शयनं करोमि।

पत्रकारः- तर्हि भवान् कदा कथाः लिखति?

लेखकः- कथाः तु अहं पूर्वस्मिन् दिने एव लिखामि।

-प्रदीपः!