ऋषिः विश्वामित्रः

Published on 25 December 2019 10:29 AM
सप्तर्षिणां मध्ये द्वितीयः ऋषिः विश्वामित्रः! सः ऋषेः पूर्वम् एकः राजा आसीत्!

यदा सः राजा आसीत् तदा वसिष्ठ- ऋषेः कामधेनुम् नेतुं तेन सह युद्धं कृतवान् आसीत् परन्तु सः विश्वामित्रः तस्मात् वसिष्ठ-ऋषेः पराजितः अभवत्!

पराजयात् परं सः विश्वामित्रः घोरं तपः कृतवान् आसीत्!

तस्य तपः स्वर्गलोकस्य अप्सरा मेनका भङ्गं कृतवती!

विश्वामित्रः एकस्य नूतनस्वर्गस्य अपि निर्माणं कृतवान् आसीत्!

विश्वामित्रः हि गायत्रीमन्त्रस्य रचनां कृतवान् आसीत्! वेदेषु गायत्रीमन्त्रः चमत्कारी मंत्रः वर्तते!

-प्रदीपः