उदात्तलक्ष्यं स्यादस्माकं

Published on 3 September 2019 05:52 PM

[audio src='https://sanskrit.today/wp-content/uploads/2019/09/उदात्तलक्ष्यं.mp3'][/audio]









💞उदात्तलक्ष्यं स्यादस्माकं पुरतो गमनार्थम्

महत्त्वभूदादर्शोस्माकं स्यादनुगमनार्थम् ।

तदोदियान्नव पक्षद्युतयं दृढं तथा दीप्तं

विदूरतेजो लोकेष्वपि सञ्चरितुमितः शक्तम् ।।





💞1. असाध्यमिति न हि किमपि मनुष्यो यदीह निश्चिनुयात्

यदि प्रमुञ्चे प्रसुप्तशक्तिं स्रोतो गणमचिरात् ।

जडत्वमीशन्नहि नो हृदि तत् विशुद्धचैतन्यम्

अयं प्रपञ्चो न भवति पादत्रयपरिमाणार्थम् ।।





💞2. कुतो विलापो दुर्बलभावं विहाय सञ्चरत

प्रसुप्तविक्रमभावमशेषं जागरयत तपसा ।

तपःप्रभावाधीनं जगदिति सदैव चिन्तयत

अपेक्षितं नो जगदाराध्यं स्वराष्ट्रसामर्थ्यम् ।।





💞3. कदापि दानवशक्तिभ्यो न हि बिभीत किञ्चिदपि

कदापि धर्मच्छद्ममुखावृतलोके मा भ्रमत

भवेद्धि लक्ष्यं ध्रुवतारकसममचञ्चलं दीप्तं

समस्तमानवनिचयहितार्थत्विदं समुज्ज्वलमयनम् ।।