आसक्तिं विना कर्म करणीयम्

Published on 1 January 2020 02:16 PM
आसक्तिं विना कर्म करणीयम्!

कश्चन महाराजः आसीत्!

सः बहु कष्टेन राज्यं परिपालयति स्म!

प्रजानां हिताय बहुधा प्रयत्नं करोति स्म!

तथापि महाराजस्य सर्वदा समस्याः!

सः समस्यानां परिहाराय प्रयत्नं करोति किन्तु प्रतिदिनं तस्य नूतनाः नूतनाः समस्याः आगच्छन्ति स्म!

एतेन महाराजः श्रान्तः अभवत्!

तदा महाराजः स्वगुरोः समीपं गतवान्!

गुरोः समीपं गत्वा प्रणम्य सः महाराजः स्वकष्टानि सर्वाणि निवेदितवान्!

गुरुः उक्तवान्- यदि एवं चेत् राज्यं त्यजतु!

कथं राज्यं त्यजामि, राज्ये इतोऽपि अराजकता अधिका भवेत् खलु इति महाराजः उक्तवान्!

तर्हि भवतः पुत्राय राज्यं ददातु इति गुरुः उक्तवान्!

मम पुत्रः तु इदानीमपि बालकः एव इति पुनः महाराजः उक्तवान्!

तर्हि भवतः राज्यं मह्यं ददातु इति गुरुः उक्तवान्!

इदानीं सः महाराजः अस्तु अहं भवते एव राज्यं ददामि इति सन्तुषेण उक्तवान्!

तर्हि जलम् आनयतु राज्यदानं करोतु इति गुरुः उक्तवान्!

तदा महाराजः जलम् आनीय गुरवे राज्यदानं कृतवान्! तत्पश्चात् गुरुः इदानीं तु राज्यं मम एव अतः भवान् कुत्र स्थास्यति इति पृष्टवान्!

अहं राज्यं गत्वा किञ्चित् धनं स्वीकृत्य अन्यराज्यं गच्छामि व्यपाराय इति महाराजः उक्तवान्!

राज्यं तु मम एव, सर्वं धनमपि मम एव अतः भवान् कथं धनं नेतुं शक्नोति इति गुरुः पृष्टवान्!

हे गुरो! तर्हि भवान् एव बोधयतु अहं किं करवाणि इति महाराजः गुरुं विनयेन पृष्टवान्!

तदा गुरुः उक्त्तवान्- राज्यपरिपालनाय एकस्य जनस्य आवश्यकता अस्ति! अहं तु तत् कार्यं कर्तुं न शक्नोमि अतः भवान् एव मम राज्यं परिपालयतु अहं भवते वेतनं दास्यामि इति!

तदा महाराजः सन्तोषेण राज्यं गत्वा राज्यपालनम् आरब्धवान्!

मासद्वयम् अनन्तरं गुरुः आगत्य महाराजं पृष्टवान् हे राजन्! इदानीं राज्यं कथं चलति, किमपि कष्टम् अनुभवति वा इति!

तदा महाराजः उक्तवान् प्रभो! अहं तु सेवकः एव!

इदानीं मम किमपि कष्टं नास्ति, अहं सुखेन राज्यपालनं कुर्वन् अस्मि इति!

अहोरात्रं परिश्रमं करोमि परन्तु कष्टं सुखं दुःखं किमपि मां न बाधते इति!

तदा गुरुः हसन् उक्तवान् हे राजन्! अयमेव कर्मयोगः! इदं न मम इति भावेन कार्यं कुर्मः चेत् कष्टशतान्यपि सोढुं सामर्थ्यम् आगच्छति इति!

🌹🌹

-प्रदीपः!!