आज्ञाकारी नचिकेता

Published on 25 November 2019 10:21 AM
नचिकेता आसीत् मातापित्रोः महान् आज्ञाकारी पुत्रः।

तस्य पिता आसीत् प्रसिद्धः स्वामी बजस्रवा।

एकदा स्वामी बजस्रवा महतः यज्ञस्य आयोजनं कृतवान् आसीत्।

यज्ञस्य समाप्तेः परं बजस्रवा स्वस्य गोशालायाः वृद्धाः धेनूः ब्राह्मणाय दानरूपेण दत्तवान् आसीत्।

स्वामिनः एवं कार्यं दृष्ट्वा आश्रमे स्थितानां आश्रमवासिनां च तस्य पुत्रस्य महद् दुःखम् अभवत्।

पितुः एवं कार्यं दृष्ट्वा पुत्रः नचिकेता तूष्णीं स्थातुम् अशक्तः पितरम् अपृच्छत् हे पितः! भवान् अस्माकं वृद्धाः सर्वाः धेनूः ब्राह्मणाय दानरूपेण दत्तवान्, इदानीं मां कस्मै दानरूपेण दास्यति इति।

पुत्रस्य वचनं श्रुत्वा असन्तुष्टः पिता अब्रवीत्- अहं त्वं यमाय दास्यामि इति।

पुत्रः नचिकेता आज्ञाकारी आसीत् अतः सः पितुराज्ञा पालनाय यमस्य अन्वेषणं कर्तुं निरगच्छत्।

त्रीणि दिनानि यावत् सः यमस्य अन्वेषणाय वने वने अटित्वा श्रान्तः अभवत्।

तदा सः एकस्य वृक्षस्य अधः सुप्तवान्।

शयनात् उत्थाय दृष्टवान् तस्य पुरतः एव यमराजः स्थितः आसीत्।

यमराजः तदा नचिकेतां अपृच्छत्- तव किं दुःखम् अस्ति यस्मात् त्वं माम् अन्वेष्टुम् आगच्छसि इति।

तदा नचिकेता उक्तवान्- मम पितुः आज्ञानुसारम् अहं भवतः सेवां कर्तुम् आगतोऽस्मि। अद्यारभ्य अहं भवतः पार्श्वे एव तिष्ठामि इति।

नचिकेतुः वचनं श्रुत्वा यमराजः अत्यन्तं सन्तुष्टः अभवत् तम् आदिष्टवान् च - अहं तव कार्ये सन्तुष्टः अस्मि, अतः त्वं इदानीं मां वरं याच इति।

तदा नचिकेता तदनुसारं त्रीन् वरान् याचितवान् आसीत्।

प्रथमः- मम कार्येषु मम पिता सर्वदा सन्तुष्टः भवेत्।

द्वितीयः- स्वर्गं कथं गन्तुं शक्यते तद्विषये ज्ञानं ददातु।

एवञ्च तृतीयः- मनुष्याणां मृत्युः किमर्थं भवति च मृत्योः परं तेषां किं भवति इति विषये वदतु इति।

यमराजः तदा तथास्तु इत्युक्त्वा अन्तर्धानम् अभवत्।

प्रदीपः!