आङ्ग्लशासनकालः

Published on 12 December 2019 05:34 PM
आङ्ग्लशासनकालः!

तदा एकस्मिन् दिने एकः भारतीयः तुलसीमातुः पूजां कुर्वन् आसीत्!

तुलसीवृक्षस्य अधः उपविश्य सः उच्चैः मन्त्रोच्चारणं कृत्वा पूजां कुर्वन् आसीत्!

तदानीम् एकः आङ्ग्लाधिकारी मार्गे गमनसमये एतद्दृष्ट्वा‌ तस्य भारतीयस्य समीपं गत्वा सः उक्तवान् भोः! किम् एतत्?

त्वं मूर्खः, वृक्षस्य अधः किं करोषि इति सः पृष्टवान्!

तदा भारतीयः उक्तवान् महोदय! एषा अस्माकं माता अस्ति तुलसी माता इति!

तदा आङ्ग्लाधिकारी उपहासं कृत्वा तं तुलसीवृक्षं उत्थाप्य स्वस्य शरीरे तेन वृक्षेण ताडयन् उक्तवान्- कुत्र तव माता, एषा मां किं करोति इत्युक्त्वा सः तं वृक्षं भूमौ क्षिप्तवान् आसीत्!

सः भारतीयः तदा उक्तवान्- महोदय! एषा तु अस्माकं माता अस्ति, सा अत्यन्तं प्रजावत्सला अस्ति अतः भवन्तं किमपि न कृतवती परन्तु अस्माकं पिता किन्तु तथा नास्ति!

सः तु शीघ्रमेव कुपितः भवति इति!

तदा विदेशीयः उक्तवान्- कुत्र तव पिता, आनय पश्यामि इति!

आम् निश्चयेन दर्शयिष्यामि परन्तु श्वः आगच्छतु, श्वः अहं तस्य पूजां करिष्यामि इति भारतीयः उक्तवान्!

परेद्युः सः भारतीयः एकस्य कण्डोषवृक्षस्य अधः उपविश्य पूजाम् आरब्धवान्!

तत्क्षणम् एव सः विदेशीयः अपि तत्र आगतवान् आसीत्!

( कण्डोषवृक्षः इत्युक्ते यस्य वृक्षस्य पर्णानि शरीरे स्पर्शं भवति चेत् कण्डुयति)

तदानीम् अपि भारतीयस्य पूजां दृष्ट्वा सः विदेशीयः तथैव आचरितवान् , तं वृक्षम् अपि भूमेः उत्थाप्य स्वस्य शरीरे ताडयन् आरब्धवान्!

परन्तु इदानीं तथा नासीत्, एतस्य वृक्षस्य स्पर्शमात्रेण तस्य शरीरे कण्डुयन् आरब्धवान्!

सः विदेशीयः उच्चैः चित्कारं कृत्वा उक्तवान् किं भोः! मम शरीरे किमर्थं कण्डुयति इति!

तदा सः भारतीयः मन्दं हसन् उक्तवान् आम्, एषः एव अस्माकं पिता! सः कुपितः अभवत्!

भवन्तः तु अस्माकम् उपहासं कुर्वन्ति परन्तु इदानीं पश्यतु!

तदा विदेशीयः भारतीयस्य पुरतः क्षमां याचित्वा उक्तवान् भोः! एतस्य निवारणाय मया किं कर्तव्यम्! कृपया माम् उपायं ददातु इति!

तदा सः भारतीयः उक्तवान्- इदानीं भवता दण्डरूपेण एकशतं रुप्यकाणि दातव्यानि तदा एव अहम् उपायं वदामि इति!

तदा झटिति सः शतं रूप्यकाणि दत्तवान् उक्तवान् च-शीघ्रम् उपायं ददातु भोः, एतस्य पीडा अहं सहनं कर्तुं न शक्नोमि इति!

तदा सः भारतीयः गोमूत्रेण सह मिश्रितं शुष्कगोमयम् आनीय तस्य शरीरे लिम्पितवान् तदा किञ्चित् पीडायाः उपशमनम् अभवत्! आरोग्यं प्राप्य सः ततः क्षमां याचित्वा निर्गतवान्!

-प्रदीपः