Telling lies

Published on 25 November 2019 11:13 AM
विद्यालये शिक्षकः छात्रान् पाठं पाठयति स्म!

पाठस्य नाम आसीत् मिथ्यावादी मेषपालकः इति!

सः मेषपालकः प्रतिदिनं मिथ्या वदति स्म! व्याघ्रः आगच्छति व्याघ्रः आगच्छति इति चित्कारं कृत्वा ग्रामस्य जनान् प्रतिदिनम् आह्वयति स्म!

ग्रामस्य जनाः अपि दण्डं गृहीत्वा धावित्वा गच्छन्ति स्म!

तत्र गत्वा कोऽपि व्याघ्रः नास्ति इति दृष्ट्वा ते पुनः आगच्छन्ति स्म!

तदा ते ग्रामिणः ज्ञातवन्तः यत् एषः मेषपालकः मिथ्या वदति इति!

एकदा साक्षात् व्याघ्रः एव आगतवान् आसीत्!

तदा सः चित्कारं कृत्वा ग्रामस्य जनान् आह्वयन् आसीत् परन्तु तदानीं ग्रामस्य कोऽपि जनः न गतवान्!

व्याघ्रः तं खादितवान्!

वदन्तु अस्मात् पाठात् भवन्तः किं शिक्षितवन्तः इति अध्यापकः छात्रान् उद्दिश्य प्रश्नं पृष्टवान्!

एकः छात्रः - यावत् पर्यन्तं वयं मिथ्या वदामः तावत् पर्यन्तं जनाः अस्माकं रक्षणं कुर्वन्ति!

सत्यं वदामः चेत् जनाः अस्मान् न रक्षन्ति! 😄