अन्ववेषणम् - Searching
एकं प्रकाशितं वनम्। तदा तत्र एकया महिलया कस्यचिद् अन्वेषणम्।
An illuminated garden. Then there was a woman looking for something.
तदा कश्चन पथिकः तस्मिन् मार्गे तस्याः अन्वेषणं दृष्ट्वा समीपम् आगत्य ताम् पृष्ठवान्। “किमपि नष्टम्? किमर्थम् अन्वेषणम्” इति।
Then a passerby saw her searching on the road and came near and asked her “Anything lost? Why the search?” he asked.
“आम्, मम अङ्गुलीयकं नष्टम्। अतः अन्वेषणम्।” इति सा उक्तवती।
“Yeah, I lost my ring. So the search.” That's what she said.
“अङ्गुलीयकम्? कुत्र पातितम्? अत्र एव वा?” इति सः पृष्टवान्।
“The ring? Where did it drop? Is it right here?” he asked.
“अत्र न, तत्र वृक्षस्य अधः” इति सा उक्तवती।
“Not here, under the tree there,” she said.
“तर्हि किमर्थं भवत्याः अन्वेषणम् अत्र?” इति तेन पृष्टे
“So why are you looking here?” When asked by him
“अहो तत्र अन्धकारः खलु? अन्धकारे द्रष्टुं न शक्तवती। अतः अत्र मया अन्विष्यमानम्” इति सा उक्तवती।
“Oh, it’s dark there, right? Couldn't see in the dark. So here is what I was looking for,” she said.
“आ धिक्। यत्र नष्टं तत्र एव अन्वेषणं करणीयम् किल” इति उक्त्वा सः तया सह अन्वेषणार्थं गतवान्।
“And damn it. We must search where it is lost.” So he went with her to search.
नष्टम् अङ्गुलीयकं लब्धम् इदानीं तया। सा सन्तुष्टा।
She has now found the lost ring. She is satisfied.
एतादृशमेव कदाचित्, अन्धकारे निगूढस्य समाधानस्य अन्वेषणम् सौकर्यवशाद् अस्माभिः अन्यत्र क्रियमानं खलु। अतः यत्र समाधानस्य मूलम्, तत्रैव अन्वेषणं करणीयम्।
Sometimes like this, we are conveniently looking for solutions hidden in the dark elsewhere. So where the root of the solution, there is the search.
कथा समाप्ता।
The story is over.
भवद्भिः किं ज्ञातं? अस्मिन् लेखे कुत्रापि एकमपि तिङन्तपदं (तन्नाम धातोः लकाररूपम्) न प्रयुक्तम् इति अत्र विशेषः।
What, have you learned? The special thing here is that nowhere in this article is a single lakara form used.
आम्, भवतां जिज्ञासायां जिज्ञासुभिः भवद्भिः पुनः पठनीयोयं लेखः।
Yes, if you are curious, you should read this again.
धन्यवादः -अशोकः
